Sukta 1.166
यूयं न उग्रा मरुतः सुचेतुनारिष्टग्रामाः सुमतिं पिपर्तन । यत्रा वो दिद्युद्रदति क्रिविर्दती रिणाति पश्वः सुधितेव बर्हणा ॥
यू॒यं न॑ उग्रा मरुतः सुचे॒तुनारि॑ष्टग्रामाः सुम॒तिं पि॑पर्तन । यत्रा॑ वो दि॒द्युद्रद॑ति॒ क्रिवि॑र्दती रि॒णाति॑ प॒श्वः सुधि॑तेव ब॒र्हणा॑ ॥
yūyaṃ na ugrā marutaḥ su-cetunā ariṣṭa-grāmāḥ su-matiṃ pipartana | yatrā vo didyud radati kriviḥ-datī riṇāti paśvaḥ sudhitāiva barhaṇā ||
You, O mighty Maruts, by your clear guiding intelligence, O hosts whose ranks are unbroken, fill us with the right thought. Where your lightning bites and gnaws with its sharp tooth, there it strips away the cattle of the darkness—like a well-fixed weapon that rends.
यू॒यम् । नः॒ । उ॒ग्राः॒ । म॒रु॒तः॒ । सु॒ऽचे॒तुना॑ । अरि॑ष्टऽग्रामाः । सु॒ऽम॒तिम् । पि॒प॒र्त॒न॒ । यत्र॑ । वः॒ । दि॒द्युत् । रद॑ति । क्रिविः॑ऽदती । रि॒णाति॑ । प॒श्वः । सुधि॑ताऽइव । ब॒र्हणा॑ ॥यूयम् । नः । उग्राः । मरुतः । सुचेतुना । अरिष्टग्रामाः । सुमतिम् । पिपर्तन । यत्र । वः । दिद्युत् । रदति । क्रिविःदती । रिणाति । पश्वः । सुधिताइव । बर्हणा ॥yūyam | naḥ | ugrāḥ | marutaḥ | su-cetunā | ariṣṭa-grāmāḥ | su-matim | pipartana | yatra | vaḥ | didyut | radati | kriviḥ-datī | riṇāti | paśvaḥ | sudhitāiva | barhaṇā