Sukta 1.166
यत्त्वेषयामा नदयन्त पर्वतान्दिवो वा पृष्ठं नर्या अचुच्यवुः । विश्वो वो अज्मन्भयते वनस्पती रथीयन्तीव प्र जिहीत ओषधिः ॥
यत्त्वे॒षया॑मा न॒दय॑न्त॒ पर्व॑तान्दि॒वो वा॑ पृ॒ष्ठं नर्या॒ अचु॑च्यवुः । विश्वो॑ वो॒ अज्म॑न्भयते॒ वन॒स्पती॑ रथी॒यन्ती॑व॒ प्र जि॑हीत॒ ओष॑धिः ॥
yat tveṣa-yāmā nadayanta parvatān divo vā pṛṣṭhaṃ naryā acucyavuḥ | viśvo vo ajman bhayate vanaspatiḥ rathiyantīva pra jihīte oṣadhiḥ ||
When, swift in your blazing course, you make the mountains roar, and you set in motion the back of heaven itself by your manly energies—then at your drive every tree is afraid, and the plants bend down as if under the rush of chariots.
यत् । त्वे॒षऽया॑माः । न॒दय॑न्त । पर्व॑तान् । दि॒वः । वा॒ । पृ॒ष्ठम् । नर्याः॑ । अचु॑च्यवुः । विश्वः॑ । वः॒ । अज्म॑न् । भ॒य॒ते॒ । वन॒स्पतिः॑ । र॒थि॒यन्ती॑ऽइव । प्र । जि॒ही॒ते॒ । ओष॑धिः ॥यत् । त्वेषयामाः । नदयन्त । पर्वतान् । दिवः । वा । पृष्ठम् । नर्याः । अचुच्यवुः । विश्वः । वः । अज्मन् । भयते । वनस्पतिः । रथियन्तीइव । प्र । जिहीते । ओषधिः ॥yat | tveṣa-yāmāḥ | nadayanta | parvatān | divaḥ | vā | pṛṣṭham | naryāḥ | acucyavuḥ | viśvaḥ | vaḥ | ajman | bhayate | vanaspatiḥ | rathiyantī-iva | pra | jihīte | oṣadhiḥ