Sukta 1.166
आ ये रजांसि तविषीभिरव्यत प्र व एवासः स्वयतासो अध्रजन् । भयन्ते विश्वा भुवनानि हर्म्या चित्रो वो यामः प्रयतास्वृष्टिषु ॥
आ ये रजां॑सि॒ तवि॑षीभि॒रव्य॑त॒ प्र व॒ एवा॑स॒: स्वय॑तासो अध्रजन् । भय॑न्ते॒ विश्वा॒ भुव॑नानि ह॒र्म्या चि॒त्रो वो॒ याम॒: प्रय॑तास्वृ॒ष्टिषु॑ ॥
ā ye rajāṃsi taviṣībhiḥ avyata pra va evāsaḥ sva-yatāso adhrajan | bhayante viśvā bhuvanāni harmyā citro vo yāmaḥ pra-yatāsu ṛṣṭiṣu ||
You whose might has woven itself through the wide spaces—forward indeed you rush, self-driven. All worlds grow afraid, even the firm-set abodes, when your many-hued march moves in the outstretched spears: when your disciplined onset goes forth.
आ । ये । रजां॑सि । तवि॑षीभिः । अव्य॑त । प्र । वः॒ । एवा॑सः । स्वऽय॑तासः । अ॒ध्र॒ज॒न् । भय॑न्ते । विश्वा॑ । भुव॑नानि । ह॒र्म्या । चि॒त्रः । वः॒ । यामः॑ । प्रऽय॑तासु । ऋ॒ष्टिषु॑ ॥आ । ये । रजांसि । तविषीभिः । अव्यत । प्र । वः । एवासः । स्वयतासः । अध्रजन् । भयन्ते । विश्वा । भुवनानि । हर्म्या । चित्रः । वः । यामः । प्रयतासु । ऋष्टिषु ॥ā | ye | rajāṃsi | taviṣībhiḥ | avyata | pra | vaḥ | evāsaḥ | sva-yatāsaḥ | adhrajan | bhayante | viśvā | bhuvanāni | harmyā | citraḥ | vaḥ | yāmaḥ | pra-yatāsu | ṛṣṭiṣu