Sukta 1.166
यस्मा ऊमासो अमृता अरासत रायस्पोषं च हविषा ददाशुषे । उक्षन्त्यस्मै मरुतो हिता इव पुरू रजांसि पयसा मयोभुवः ॥
यस्मा॒ ऊमा॑सो अ॒मृता॒ अरा॑सत रा॒यस्पोषं॑ च ह॒विषा॑ ददा॒शुषे॑ । उ॒क्षन्त्य॑स्मै म॒रुतो॑ हि॒ता इ॑व पु॒रू रजां॑सि॒ पय॑सा मयो॒भुव॑: ॥
yasmā ūmāso amṛtā arāsata rāyaspoṣaṃ ca haviṣā dadāśuṣe | ukṣanty asmai maruto hitā iva purū rajāṃsi payasā mayobhuvaḥ ||
To whom the immortal helpers have granted increase of plenitude and growth, because he has given with his oblation—to him the Maruts, well-disposed, pour out many regions of being as with milk, becoming powers of gladness and ease.
यस्मै॑ । ऊमा॑सः । अ॒मृताः॑ । अरा॑सत । रा॒यः । पोष॑म् । च॒ । ह॒विषा॑ । द॒दा॒शुषे॑ । उ॒क्षन्ति॑ । अ॒स्मै॒ । म॒रुतः॑ । हि॒ताःऽइ॑व । पु॒रु । रजां॑सि । पय॑सा । म॒यः॒ऽभुवः॑ ॥यस्मै । ऊमासः । अमृताः । अरासत । रायः । पोषम् । च । हविषा । ददाशुषे । उक्षन्ति । अस्मै । मरुतः । हिताःइव । पुरु । रजांसि । पयसा । मयःभुवः ॥yasmai | ūmāsaḥ | amṛtāḥ | arāsata | rāyaḥ | poṣam | ca | haviṣā | dadāśuṣe | ukṣanti | asmai | marutaḥ | hitāḥ-iva | puru | rajāṃsi | payasā | mayaḥ-bhuvaḥ