Sukta 1.166
नित्यं न सूनुं मधु बिभ्रत उप क्रीळन्ति क्रीळा विदथेषु घृष्वयः । नक्षन्ति रुद्रा अवसा नमस्विनं न मर्धन्ति स्वतवसो हविष्कृतम् ॥
नित्यं॒ न सू॒नुं मधु॒ बिभ्र॑त॒ उप॒ क्रीळ॑न्ति क्री॒ळा वि॒दथे॑षु॒ घृष्व॑यः । नक्ष॑न्ति रु॒द्रा अव॑सा नम॒स्विनं॒ न म॑र्धन्ति॒ स्वत॑वसो हवि॒ष्कृत॑म् ॥
nityaṃ na sūnuṃ madhu bibhrata upa krīḷanti krīḷā vidatheṣu ghṛṣvayaḥ | nakṣanti rudrā avasā namasvinaṃ na mardhanti sva-tavaso haviḥ-kṛtam ||
Ever as if bearing a beloved son, they carry the honeyed sweetness of delight; the impetuous Maruts sport in the assemblies of the seekers. The Rudras reach the adorer with their help; self-strong, they do not crush the one who has fashioned the offering—who has made his act a consecrated oblation.
नित्य॑म् । न । सू॒नुम् । मधु॑ । बिभ्र॑तः । उप॑ । क्रीळ॑न्ति । क्री॒ळाः । वि॒दथे॑षु । घृष्व॑यः । नक्ष॑न्ति । रु॒द्राः । अव॑सा । न॒म॒स्विन॑म् । न । म॒र्ध॒न्ति॒ । स्वऽत॑वसः । ह॒विः॒ऽकृत॑म् ॥नित्यम् । न । सूनुम् । मधु । बिभ्रतः । उप । क्रीळन्ति । क्रीळाः । विदथेषु । घृष्वयः । नक्षन्ति । रुद्राः । अवसा । नमस्विनम् । न । मर्धन्ति । स्वतवसः । हविःकृतम् ॥nityam | na | sūnum | madhu | bibhrataḥ | upa | krīḷanti | krīḷāḥ | vidatheṣu | ghṛṣvayaḥ | nakṣanti | rudrāḥ | avasā | namasvinam | na | mardhanti | sva-tavasaḥ | haviḥ-kṛtam