Sukta 1.166
तन्नु वोचाम रभसाय जन्मने पूर्वं महित्वं वृषभस्य केतवे । ऐधेव यामन्मरुतस्तुविष्वणो युधेव शक्रास्तविषाणि कर्तन ॥
तन्नु वो॑चाम रभ॒साय॒ जन्म॑ने॒ पूर्वं॑ महि॒त्वं वृ॑ष॒भस्य॑ के॒तवे॑ । ऐ॒धेव॒ याम॑न्मरुतस्तुविष्वणो यु॒धेव॑ शक्रास्तवि॒षाणि॑ कर्तन ॥
tán nu vocāma rabhasā́ya jánmane pū́rvaṁ mahitváṁ vṛṣabhásya ketáve | aidhéva yā́man marutas tuvi-sváṇo yudhéva śakrās taviṣā́ṇi kartana ||
Now let us speak of the impetuous birth, the primal greatness of the Bull for the sake of the luminous sign. Like a kindled fire in its going, O Maruts of mighty sound, like warriors, O strong ones, you fashion acts of force.
तत् । नु । वो॒चा॒म॒ । र॒भ॒साय॑ । जन्म॑ने । पूर्व॑म् । म॒हि॒त्वम् । वृ॒ष॒भस्य॑ । के॒तवे॑ । ऐ॒धाऽइ॑व । याम॑न् । म॒रु॒तः॒ । तु॒वि॒ऽस्व॒णः॒ । यु॒धाऽइ॑व । श॒क्राः॒ । त॒वि॒षाणि॑ । क॒र्त॒न॒ ॥तत् । नु । वोचाम । रभसाय । जन्मने । पूर्वम् । महित्वम् । वृषभस्य । केतवे । ऐधाइव । यामन् । मरुतः । तुविस्वणः । युधाइव । शक्राः । तविषाणि । कर्तन ॥tat | nu | vocāma | rabhasāya | janmane | pūrvam | mahitvam | vṛṣabhasya | ketave | aidhāiva | yāman | marutaḥ | tuvi-svaṇaḥ | yudhāiva | śakrāḥ | taviṣāṇi | kartana