Sukta 1.166
येन दीर्घं मरुतः शूशवाम युष्माकेन परीणसा तुरासः । आ यत्ततनन्वृजने जनास एभिर्यज्ञेभिस्तदभीष्टिमश्याम् ॥
येन॑ दी॒र्घं म॑रुतः शू॒शवा॑म यु॒ष्माके॑न॒ परी॑णसा तुरासः । आ यत्त॒तन॑न्वृ॒जने॒ जना॑स ए॒भिर्य॒ज्ञेभि॒स्तद॒भीष्टि॑मश्याम् ॥
yéna dī́rghaṃ marutaḥ śūśávāma yuṣmā́kena párīṇasā turāsaḥ | ā́ yát tátanan vṛjáné jánāsa ebhír yajñébhis tád abhī́ṣṭim aśyām ||
By that power, O Maruts, may we grow long in our becoming—by your fullness, O impetuous ones. When you extend yourselves into the battle-press of human life, then by these sacrifices may we attain that desired fulfilment.
येन॑ । दी॒र्घम् । म॒रु॒तः॒ । शू॒शवा॑म । यु॒ष्माके॑न । परी॑णसा । तु॒रा॒सः॒ । आ । यत् । त॒तन॑म् । वृ॒जने॑ । जना॑सः । ए॒भिः । य॒ज्ञेभिः॑ । तत् । अ॒भि । इष्टि॑म् । अ॒श्या॒म् ॥येन । दीर्घम् । मरुतः । शूशवाम । युष्माकेन । परीणसा । तुरासः । आ । यत् । ततनम् । वृजने । जनासः । एभिः । यज्ञेभिः । तत् । अभि । इष्टिम् । अश्याम् ॥yena | dīrgham | marutaḥ | śūśavāma | yuṣmākena | parīṇasā | turāsaḥ | ā | yat | tatanam | vṛjane | janāsaḥ | ebhiḥ | yajñebhiḥ | tat | abhi | iṣṭim | aśyām