Sukta 1.166
तद्वो जामित्वं मरुतः परे युगे पुरू यच्छंसममृतास आवत । अया धिया मनवे श्रुष्टिमाव्या साकं नरो दंसनैरा चिकित्रिरे ॥
तद्वो॑ जामि॒त्वं म॑रुत॒: परे॑ यु॒गे पु॒रू यच्छंस॑ममृतास॒ आव॑त । अ॒या धि॒या मन॑वे श्रु॒ष्टिमाव्या॑ सा॒कं नरो॑ दं॒सनै॒रा चि॑कित्रिरे ॥
tád vo jāmitváṃ marutaḥ páre yugé purū́ yác cháṃsam amṛtāsa ā́vata | ayā́ dhiyā́ mánave śruṣṭím ā́vyā sākáṃ náro daṃsanáir ā́ cikitrire ||
This your kinship, O Maruts, was in the former age: many a time, O immortals, you fostered the inspired utterance. With this thought you brought to Manu the hearing and the wool-clad protection; together, O strong ones, by your powers of skill you made it manifest.
तत् । वः॒ । जा॒मि॒ऽत्वम् । म॒रु॒तः॒ । परे॑ । यु॒गे । पु॒रु । यत् । शंस॑म् । अ॒मृ॒ता॒सः॒ । आव॑त । अ॒या । धि॒या । मन॑वे । श्रु॒ष्टिम् । आव्य॑ । सा॒कम् । नरः॑ । दं॒सनैः॑ । आ । चि॒कि॒त्रि॒रे॒ ॥तत् । वः । जामित्वम् । मरुतः । परे । युगे । पुरु । यत् । शंसम् । अमृतासः । आवत । अया । धिया । मनवे । श्रुष्टिम् । आव्य । साकम् । नरः । दंसनैः । आ । चिकित्रिरे ॥tat | vaḥ | jāmi-tvam | marutaḥ | pare | yuge | puru | yat | śaṃsam | amṛtāsaḥ | āvata | ayā | dhiyā | manave | śruṣṭim | āvya | sākam | naraḥ | daṃsanaiḥ | ā | cikitrire