Sukta 1.166
तद्वः सुजाता मरुतो महित्वनं दीर्घं वो दात्रमदितेरिव व्रतम् । इन्द्रश्चन त्यजसा वि ह्रुणाति तज्जनाय यस्मै सुकृते अराध्वम् ॥
तद्व॑: सुजाता मरुतो महित्व॒नं दी॒र्घं वो॑ दा॒त्रमदि॑तेरिव व्र॒तम् । इन्द्र॑श्च॒न त्यज॑सा॒ वि ह्रु॑णाति॒ तज्जना॑य॒ यस्मै॑ सु॒कृते॒ अरा॑ध्वम् ॥
tád vaḥ sujātā maruto mahitvánam dī́rghaṃ vo dātrám áditeḥ iva vratám | índraś caná tyájasā ví hruṇāti tád jánāya yásmai sukṛ́te arā́dhvam ||
That greatness is yours, O well-born Maruts; long-enduring is your gift, like Aditi’s steadfast law. Even Indra does not set it aside by force; therefore for the human who is a doer of the good, make it attainable—grant him your effective help.
तत् । वः॒ । सु॒ऽजा॒ताः॒ । म॒रु॒तः॒ । म॒हि॒ऽत्व॒नम् । दी॒र्घम् । वः॒ । दा॒त्रम् । अदि॑तेःऽइव । व्र॒तम् । इन्द्रः॑ । च॒न । त्यज॑सा । वि । ह्रु॒णा॒ति॒ । तत् । जना॑य । यस्मै॑ । सु॒ऽकृते॑ । अरा॑ध्वम् ॥तत् । वः । सुजाताः । मरुतः । महित्वनम् । दीर्घम् । वः । दात्रम् । अदितेःइव । व्रतम् । इन्द्रः । चन । त्यजसा । वि । ह्रुणाति । तत् । जनाय । यस्मै । सुकृते । अराध्वम् ॥tat | vaḥ | su-jātāḥ | marutaḥ | mahi-tvanam | dīrgham | vaḥ | dātram | aditeḥ-iva | vratam | indraḥ | cana | tyajasā | vi | hruṇāti | tat | janāya | yasmai | su-kṛte | arādhvam