Sukta 1.166
महान्तो मह्ना विभ्वो विभूतयो दूरेदृशो ये दिव्या इव स्तृभिः । मन्द्राः सुजिह्वाः स्वरितार आसभिः सम्मिश्ला इन्द्रे मरुतः परिष्टुभः ॥
म॒हान्तो॑ म॒ह्ना वि॒भ्वो॒३॒॑ विभू॑तयो दूरे॒दृशो॒ ये दि॒व्या इ॑व॒ स्तृभि॑: । म॒न्द्राः सु॑जि॒ह्वाः स्वरि॑तार आ॒सभि॒: सम्मि॑श्ला॒ इन्द्रे॑ म॒रुत॑: परि॒ष्टुभ॑: ॥
mahānto mahnā vi-bhvo vibhūtayo dūre-dṛśo ye divyā iva stṛbhiḥ | mandrāḥ su-jihvāḥ svaritāra āsa-bhiḥ sam-miślā indre marutaḥ pari-stubhaḥ ||
Great by greatness, all-pervading in their manifestations, far-seeing like the divine with their radiant forms—melodious, fair-tongued, sounding their own tones with their mouths, the Maruts are mingled with Indra, encompassed in the chant of praise.
म॒हान्तः॑ । म॒ह्ना । वि॒ऽभ्वः॑ । विऽभू॑तयः । दू॒रे॒ऽदृशः॑ । ये । दि॒व्याःऽइ॑व । स्तृऽभिः॑ । म॒न्द्राः । सु॒ऽजि॒ह्वाः । स्वरि॑तारः । आ॒सऽभिः॑ । सम्ऽमि॑श्लाः । इन्द्रे॑ । म॒रुतः॑ । प॒रि॒ऽस्तुभः॑ ॥महान्तः । मह्ना । विभ्वः । विभूतयः । दूरेदृशः । ये । दिव्याःइव । स्तृभिः । मन्द्राः । सुजिह्वाः । स्वरितारः । आसभिः । सम्मिश्लाः । इन्द्रे । मरुतः । परिस्तुभः ॥mahāntaḥ | mahnā | vi-bhvaḥ | vi-bhūtayaḥ | dūre--dṛśaḥ | ye | divyāḥ-iva | stṛ-bhiḥ | mandrāḥ | su-jihvāḥ | svaritāraḥ | āsa-bhiḥ | sam-miślāḥ | indre | marutaḥ | pari-stubhaḥ