Sukta 1.165
अनुत्तमा ते मघवन्नकिर्नु न त्वावाँ अस्ति देवता विदानः । न जायमानो नशते न जातो यानि करिष्या कृणुहि प्रवृद्ध ॥
अनु॑त्त॒मा ते॑ मघव॒न्नकि॒र्नु न त्वावाँ॑ अस्ति दे॒वता॒ विदा॑नः । न जाय॑मानो॒ नश॑ते॒ न जा॒तो यानि॑ करि॒ष्या कृ॑णु॒हि प्र॑वृद्ध ॥
anúttamā́ te maghavannákir nú na tvā́vān asti devátā vidā́naḥ | ná jā́yamāno náśate ná jātó yā́ni kariṣyā́ kṛṇuhí prá-vṛddha ||
Unsurpassed is thy greatness, O bountiful one; none at all, no god who knows, is equal to thee. Neither one being born nor one already born can reach the things thou shalt do—do thou them, O ever-increasing in power.
अनु॑त्तम् । आ । ते॒ । म॒घ॒व॒न् । नकिः॑ । नु । न । त्वाऽवा॑न् । अ॒स्ति॒ । दे॒वता॑ । विदा॑नः । न । जाय॑मानः । नश॑ते । न । जा॒तः । यानि॑ । क॒रि॒ष्या । कृ॒णु॒हि । प्र॒ऽवृ॒द्धः॒ ॥अनुत्तम् । आ । ते । मघवन् । नकिः । नु । न । त्वावान् । अस्ति । देवता । विदानः । न । जायमानः । नशते । न । जातः । यानि । करिष्या । कृणुहि । प्रवृद्धः ॥anuttam | ā | te | maghavan | nakiḥ | nu | na | tvāvān | asti | devatā | vidānaḥ | na | jāyamānaḥ | naśate | na | jātaḥ | yāni | kariṣyā | kṛṇuhi | pra-vṛddhaḥ