Sukta 1.165
एकस्य चिन्मे विभ्वस्त्वोजो या नु दधृष्वान्कृणवै मनीषा । अहं ह्युग्रो मरुतो विदानो यानि च्यवमिन्द्र इदीश एषाम् ॥
एक॑स्य चिन्मे वि॒भ्व१॒॑स्त्वोजो॒ या नु द॑धृ॒ष्वान्कृ॒णवै॑ मनी॒षा । अ॒हं ह्यु१॒॑ग्रो म॑रुतो॒ विदा॑नो॒ यानि॒ च्यव॒मिन्द्र॒ इदी॑श एषाम् ॥
ékasya cin me vibhvā́stv ójo yā́ nu dadhṛṣvā́n kṛṇávai manīṣā́ | aháṁ hy ùgró maruto vidā́nó yā́ni cyávam índra íd ī́śa eṣām ||
Even of one alone let there be for me the all-pervading might, so that with daring I may fashion my thought. For I am indeed the fierce one, O Maruts, knowing; whatever I set in motion—Indra alone is the lord over these.
एक॑स्य । चि॒त् । मे॒ । वि॒ऽभु । अ॒स्तु॒ । ओजः॑ । या । नु । द॒धृ॒ष्वान् । कृ॒णवै॑ । म॒नी॒षा । अ॒हम् । हि । उ॒ग्रः । म॒रु॒तः॒ । विदा॑नः । यानि॑ । च्यव॑म् । इन्द्रः॑ । इत् । ई॒शे॒ । ए॒षा॒म् ॥एकस्य । चित् । मे । विभु । अस्तु । ओजः । या । नु । दधृष्वान् । कृणवै । मनीषा । अहम् । हि । उग्रः । मरुतः । विदानः । यानि । च्यवम् । इन्द्रः । इत् । ईशे । एषाम् ॥ekasya | cit | me | vi-bhu | astu | ojaḥ | yā | nu | dadhṛṣvān | kṛṇavai | manīṣā | aham | hi | ugraḥ | marutaḥ | vidānaḥ | yāni | cyavam | indraḥ | it | īśe | eṣām