Sukta 1.165
वधीं वृत्रं मरुत इन्द्रियेण स्वेन भामेन तविषो बभूवान् । अहमेता मनवे विश्वश्चन्द्राः सुगा अपश्चकर वज्रबाहुः ॥
वधीं॑ वृ॒त्रं म॑रुत इन्द्रि॒येण॒ स्वेन॒ भामे॑न तवि॒षो ब॑भू॒वान् । अ॒हमे॒ता मन॑वे वि॒श्वश्च॑न्द्राः सु॒गा अ॒पश्च॑कर॒ वज्र॑बाहुः ॥
vadhī́m vṛtrám maruta indríyeṇa svéna bhā́mena taviṣó babhūvān | ahám etā́ mánave viśvá-candrāḥ su-gā́ ápaś cakara vájra-bāhuḥ ||
I slew the Coverer, O Maruts, by my own Indra-force; by my own shining I became the vehement. I, the arm that bears the thunder, made these waters for man—universal in their light—easy to move upon, paths of a glad advance.
वधी॑म् । वृ॒त्रम् । म॒रु॒तः॒ । इ॒न्द्रि॒येण॑ । स्वेन॑ । भामे॑न । त॒वि॒षः । ब॒भू॒वान् । अ॒हम् । ए॒ताः । मन॑वे । वि॒श्वऽच॑न्द्राः । सु॒ऽगाः । अ॒पः । च॒क॒र॒ । वज्र॑ऽबाहुः ॥वधीम् । वृत्रम् । मरुतः । इन्द्रियेण । स्वेन । भामेन । तविषः । बभूवान् । अहम् । एताः । मनवे । विश्वचन्द्राः । सुगाः । अपः । चकर । वज्रबाहुः ॥vadhīm | vṛtram | marutaḥ | indriyeṇa | svena | bhāmena | taviṣaḥ | babhūvān | aham | etāḥ | manave | viśva-candrāḥ | su-gāḥ | apaḥ | cakara | vajra-bāhuḥ