Sukta 1.165
भूरि चकर्थ युज्येभिरस्मे समानेभिर्वृषभ पौंस्येभिः । भूरीणि हि कृणवामा शविष्ठेन्द्र क्रत्वा मरुतो यद्वशाम ॥
भूरि॑ चकर्थ॒ युज्ये॑भिर॒स्मे स॑मा॒नेभि॑र्वृषभ॒ पौंस्ये॑भिः । भूरी॑णि॒ हि कृ॒णवा॑मा शवि॒ष्ठेन्द्र॒ क्रत्वा॑ मरुतो॒ यद्वशा॑म ॥
bhū́ri cakartha yújyebhir asmē samānḗbhir vṛṣabha paúṁsyēbhiḥ | bhū́rīṇi hí kṛṇávāmā śaviṣṭhéndra krátvā maruto yád vaśā́ma ||
O Bull of force, thou hast wrought much for us by thy harnessed powers, by thy equal and kindred manhoods. For we too would accomplish many things—O most puissant Indra—by the will of the Maruts and by the power of conscious intention, whenever we are moved to mastery.
भूरि॑ । च॒क॒र्थ॒ । युज्ये॑भिः । अ॒स्मे इति॑ । स॒मा॒नेभिः॑ । वृ॒ष॒भ॒ । पौंस्ये॑भिः । भूरी॑णि । हि । कृ॒णवा॑म । श॒वि॒ष्ठ॒ । इन्द्र॑ । क्रत्वा॑ । म॒रु॒तः॒ । यत् । वशा॑म ॥भूरि । चकर्थ । युज्येभिः । अस्मे इति । समानेभिः । वृषभ । पौंस्येभिः । भूरीणि । हि । कृणवाम । शविष्ठ । इन्द्र । क्रत्वा । मरुतः । यत् । वशाम ॥bhūri | cakartha | yujyebhiḥ | asme iti | samānebhiḥ | vṛṣabha | paiṃsyebhiḥ | bhūrīṇi | hi | kṛṇavāma | śaviṣṭha | indra | kratvā | marutaḥ | yat | vaśāma