Sukta 1.165
अतो वयमन्तमेभिर्युजानाः स्वक्षत्रेभिस्तन्वः शुम्भमानाः । महोभिरेताँ उप युज्महे न्विन्द्र स्वधामनु हि नो बभूथ ॥
अतो॑ व॒यम॑न्त॒मेभि॑र्युजा॒नाः स्वक्ष॑त्रेभिस्त॒न्व१॒॑: शुम्भ॑मानाः । महो॑भि॒रेताँ॒ उप॑ युज्महे॒ न्विन्द्र॑ स्व॒धामनु॒ हि नो॑ ब॒भूथ॑ ॥
ató vayám antamébhiḥ yujānā́ḥ svákṣatrebhis tanvàḥ śúmbhamānāḥ | máhobhir etā́n úpa yujmahe nv índra svadhā́m ánu hí no babhū́tha ||
Therefore we, yoked with these nearest powers, adorning our being by their own lordly strength, join ourselves to them by their greatnesses. O Indra, follow your own law of being—for you have indeed become for us.
अतः॑ । व॒यम् । अ॒न्त॒मेभिः॑ । यु॒जा॒नाः । स्वऽक्ष॑त्रेभिः । त॒न्वः॑ । शुम्भ॑मानाः । महः॑ऽभिः । एता॑न् । उप॑ । यु॒ज्म॒हे॒ । नु । इन्द्र॑ । स्व॒धाम् । अनु॑ । हि । नः॒ । ब॒भूथ॑ ॥अतः । वयम् । अन्तमेभिः । युजानाः । स्वक्षत्रेभिः । तन्वः । शुम्भमानाः । महःभिः । एतान् । उप । युज्महे । नु । इन्द्र । स्वधाम् । अनु । हि । नः । बभूथ ॥ataḥ | vayam | antamebhiḥ | yujānāḥ | sva-kṣatrebhiḥ | tanvaḥ | śumbhamānāḥ | mahaḥ-bhiḥ | etān | upa | yujmahe | nu | indra | svadhām | anu | hi | naḥ | babhūtha