Sukta 1.165
ब्रह्माणि मे मतयः शं सुतासः शुष्म इयर्ति प्रभृतो मे अद्रिः । आ शासते प्रति हर्यन्त्युक्थेमा हरी वहतस्ता नो अच्छ ॥
ब्रह्मा॑णि मे म॒तय॒: शं सु॒तास॒: शुष्म॑ इयर्ति॒ प्रभृ॑तो मे॒ अद्रि॑: । आ शा॑सते॒ प्रति॑ हर्यन्त्यु॒क्थेमा हरी॑ वहत॒स्ता नो॒ अच्छ॑ ॥
bráhmāṇi me matáyaḥ śáṃ sutā́saḥ śúṣma iyarti prábhṛto me ádriḥ | ā́ śāsate práti haryanty ukthemā́ hárī vahatas tā́ no áccha ||
My inspired words, my thoughts, are for the good; the pressed Soma is ready, and my force rises—my stone is uplifted. The hymns call; they answer with delight. Let the two tawny steeds bring you here to us.
ब्रह्मा॑णि । मे॒ । म॒तयः॑ । शम् । सु॒तासः॑ । शुष्मः॑ । इ॒य॒र्ति॒ । प्रऽभृ॑तः । मे॒ । अद्रिः॑ । आ । शा॒स॒ते॒ । प्रति॑ । ह॒र्य॒न्ति॒ । उ॒क्था । इ॒मा । हरी॒ इति॑ । व॒ह॒तः॒ । ता । नः॒ । अच्छ॑ ॥ब्रह्माणि । मे । मतयः । शम् । सुतासः । शुष्मः । इयर्ति । प्रभृतः । मे । अद्रिः । आ । शासते । प्रति । हर्यन्ति । उक्था । इमा । हरी इति । वहतः । ता । नः । अच्छ ॥brahmāṇi | me | matayaḥ | śam | sutāsaḥ | śuṣmaḥ | iyarti | pra-bhṛtaḥ | me | adriḥ | ā | śāsate | prati | haryanti | ukthā | imā | harī iti | vahataḥ | tā | naḥ | accha