Sukta 1.165
कुतस्त्वमिन्द्र माहिनः सन्नेको यासि सत्पते किं त इत्था । सं पृच्छसे समराणः शुभानैर्वोचेस्तन्नो हरिवो यत्ते अस्मे ॥
कुत॒स्त्वमि॑न्द्र॒ माहि॑न॒: सन्नेको॑ यासि सत्पते॒ किं त॑ इ॒त्था । सं पृ॑च्छसे समरा॒णः शु॑भा॒नैर्वो॒चेस्तन्नो॑ हरिवो॒ यत्ते॑ अ॒स्मे ॥
kutás tvám indra mā́hinaḥ sánnéko yāsi satpate kím ta itthā́ | sáṃ pṛcchase samarāṇáḥ śubhānáir vóces tán no harivo yát te asmè ||
From where do you come, O Indra of might, that you go alone, O lord of the true? Why do you question thus, coming with your splendid ones? Speak to us, O Harivan, what you intend for us here.
कुतः॑ । त्वम् । इ॒न्द्र॒ । माहि॑नः । सन् । एकः॑ । या॒सि॒ । स॒त्ऽप॒ते॒ । किम् । ते॒ । इ॒त्था । सम् । पृ॒च्छ॒से॒ । स॒म्ऽअ॒रा॒णः । शु॒भा॒नैः । वो॒चेः । तत् । नः॒ । ह॒रि॒ऽवः॒ । यत् । ते॒ । अ॒स्मे इति॑ ॥कुतः । त्वम् । इन्द्र । माहिनः । सन् । एकः । यासि । सत्पते । किम् । ते । इत्था । सम् । पृच्छसे । सम्अराणः । शुभानैः । वोचेः । तत् । नः । हरिवः । यत् । ते । अस्मे इति ॥kutaḥ | tvam | indra | māhinaḥ | san | ekaḥ | yāsi | sat-pate | kim | te | itthā | sam | pṛcchase | sam-arāṇaḥ | śubhānaiḥ | voceḥ | tat | naḥ | hari-vaḥ | yat | te | asme iti