Sukta 1.165
आ यद्दुवस्याद्दुवसे न कारुरस्माञ्चक्रे मान्यस्य मेधा । ओ षु वर्त्त मरुतो विप्रमच्छेमा ब्रह्माणि जरिता वो अर्चत् ॥
आ यद्दु॑व॒स्याद्दु॒वसे॒ न का॒रुर॒स्माञ्च॒क्रे मा॒न्यस्य॑ मे॒धा । ओ षु व॑र्त्त मरुतो॒ विप्र॒मच्छे॒मा ब्रह्मा॑णि जरि॒ता वो॑ अर्चत् ॥
ā́ yád duvasyā́d duváse ná kā́rur asmā́ñ cakre mā́nyasya médhā | ó ṣú várt-ta maruto vípram ácchémā́ bráhmāṇi jaritā́ vo arcat ||
When the singer would serve for service, the intelligence of the worthy has fashioned us (an instrument). Turn then, O Maruts, towards the inspired seer; the praiser has uttered to you these word-powers.
आ । यत् । दु॒व॒स्यात् । दु॒वसे॑ । न । का॒रुः । अ॒स्मान् । च॒क्रे । मा॒न्यस्य॑ । मे॒धा । ओ इति॑ । सु । व॒र्त्त॒ । म॒रु॒तः॒ । विप्र॑म् । अच्छ॑ । इ॒मा । ब्रह्मा॑णि । ज॒रि॒ता । वः॒ । अ॒र्च॒त् ॥आ । यत् । दुवस्यात् । दुवसे । न । कारुः । अस्मान् । चक्रे । मान्यस्य । मेधा । ओ इति । सु । वर्त्त । मरुतः । विप्रम् । अच्छ । इमा । ब्रह्माणि । जरिता । वः । अर्चत् ॥ā | yat | duvasyāt | duvase | na | kāruḥ | asmān | cakre | mānyasya | medhā | o iti | su | vartta | marutaḥ | vipram | accha | imā | brahmāṇi | jaritā | vaḥ | arcat