Sukta 1.165
को न्वत्र मरुतो मामहे वः प्र यातन सखीँरच्छा सखायः । मन्मानि चित्रा अपिवातयन्त एषां भूत नवेदा म ऋतानाम् ॥
को न्वत्र॑ मरुतो मामहे व॒: प्र या॑तन॒ सखीँ॒रच्छा॑ सखायः । मन्मा॑नि चित्रा अपिवा॒तय॑न्त ए॒षां भू॑त॒ नवे॑दा म ऋ॒ताना॑म् ॥
kó nv átra maruto māmahe vaḥ prá yātana sakhī́ṁr ácchā sakhāyaḥ | mánmāni citrā api-vātáyanta eṣā́ṁ bhūta návedā ma ṛtā́nām ||
Who here, O Maruts, is there that can magnify you? Go forth, O friends, towards your comrades. Waft my many-coloured thoughts; become for me the new-knowers of the truths of Rita.
कः । नु । अत्र॑ । म॒रु॒तः॒ । म॒म॒हे॒ । वः॒ । प्र । या॒त॒न॒ । सखी॒न् । अच्छ॑ । स॒खा॒यः॒ । मन्मा॑नि । चि॒त्राः॒ । अ॒पि॒ऽवा॒तय॑न्तः । ए॒षाम् । भू॒त॒ । नवे॑दाः । मे॒ । ऋ॒ताना॑म् ॥कः । नु । अत्र । मरुतः । ममहे । वः । प्र । यातन । सखीन् । अच्छ । सखायः । मन्मानि । चित्राः । अपिवातयन्तः । एषाम् । भूत । नवेदाः । मे । ऋतानाम् ॥kaḥ | nu | atra | marutaḥ | mamahe | vaḥ | pra | yātana | sakhīn | accha | sakhāyaḥ | manmāni | citrāḥ | api-vātayantaḥ | eṣām | bhūta | navedāḥ | me | ṛtānām