Sukta 1.164
पाकः पृच्छामि मनसाविजानन्देवानामेना निहिता पदानि । वत्से बष्कयेऽधि सप्त तन्तून्वि तत्निरे कवय ओतवा उ ॥
पाक॑: पृच्छामि॒ मन॒सावि॑जानन्दे॒वाना॑मे॒ना निहि॑ता प॒दानि॑ । व॒त्से ब॒ष्कयेऽधि॑ स॒प्त तन्तू॒न्वि त॑त्निरे क॒वय॒ ओत॒वा उ॑ ॥
pā́kaḥ pṛcchāmi mánasā́vi-jānan devā́nām enā́ ní-hitā padā́ni | vatsé baṣkáye ádhi saptá tantū́n ví tatnire kaváya ótavā́ u ||
Unripe, I ask with the mind that does not yet know: these are the hidden tracks of the gods. Upon the calf, upon the womb of becoming, the seers have stretched out seven threads, weaving the fabric of the journey.
पाकः॑ । पृ॒च्छा॒मि॒ । मन॑सा । अवि॑ऽजानन् । दे॒वाना॑म् । ए॒ना । निऽहि॑ता । प॒दानि॑ । व॒त्से । ब॒ष्कये॑ । अधि॑ । स॒प्त । तन्तू॑न् । वि । त॒त्नि॒रे॒ । क॒वयः॑ । ओत॒वै । ऊँ॒ इति॑ ॥पाकः । पृच्छामि । मनसा । अविजानन् । देवानाम् । एना । निहिता । पदानि । वत्से । बष्कये । अधि । सप्त । तन्तून् । वि । तत्निरे । कवयः । ओतवै । ऊँ इति ॥pākaḥ | pṛcchāmi | manasā | avi-jānan | devānām | enā | ni-hitā | padāni | vatse | baṣkaye | adhi | sapta | tantūn | vi | tatnire | kavayaḥ | otavai | oṃ iti