Sukta 1.164
को ददर्श प्रथमं जायमानमस्थन्वन्तं यदनस्था बिभर्ति । भूम्या असुरसृगात्मा क्व स्वित्को विद्वांसमुप गात्प्रष्टुमेतत् ॥
को द॑दर्श प्रथ॒मं जाय॑मानमस्थ॒न्वन्तं॒ यद॑न॒स्था बिभ॑र्ति । भूम्या॒ असु॒रसृ॑गा॒त्मा क्व॑ स्वि॒त्को वि॒द्वांस॒मुप॑ गा॒त्प्रष्टु॑मे॒तत् ॥
kó dadarśa prathamáṃ jā́yamānam asthán-vantaṃ yád anásthā bíbhar ti | bhū́myā ásur ásṛg ātmā́ kvà svit kó vidvā́ṃsam úpa gāt práṣṭum etát ||
Who has seen the first-born as he is born—having bones, yet borne by what is boneless? From the Earth, where indeed are breath and blood and the self? Who will go near a knower to ask this?
कः । द॒द॒र्श॒ । प्र॒थ॒मम् । जाय॑मानम् । अ॒स्थ॒न्ऽवन्त॑म् । यत् । अ॒न॒स्था । बिभ॑र्ति । भूम्याः॑ । असुः॑ । असृ॑क् । आ॒त्मा । क्व॑ । स्वि॒त् । कः । वि॒द्वांस॑म् । उप॑ । गा॒त् । प्रष्टु॑म् । ए॒तत् ॥कः । ददर्श । प्रथमम् । जायमानम् । अस्थन्वन्तम् । यत् । अनस्था । बिभर्ति । भूम्याः । असुः । असृक् । आत्मा । क्व । स्वित् । कः । विद्वांसम् । उप । गात् । प्रष्टुम् । एतत् ॥kaḥ | dadarśa | prathamam | jāyamānam | asthan-vantam | yat | anasthā | bibharti | bhūmyāḥ | asuḥ | asṛk | ātmā | kva | svit | kaḥ | vidvāṃsam | upa | gāt | praṣṭum | etat