Sukta 1.164
कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति । त आववृत्रन्त्सदनादृतस्यादिद्घृतेन पृथिवी व्युद्यते ॥
कृ॒ष्णं नि॒यानं॒ हर॑यः सुप॒र्णा अ॒पो वसा॑ना॒ दिव॒मुत्प॑तन्ति । त आव॑वृत्र॒न्त्सद॑नादृ॒तस्यादिद्घृ॒तेन॑ पृथि॒वी व्यु॑द्यते ॥
kṛṣṇáṃ niyā́naṃ háryaḥ suparṇā́ apó vásānā divám út patanti | tá āvavṛtrán sádānād ṛtásyā́did ghṛténa pr̥thivī́ vyùdyate ||
The tawny fair-winged powers, clothed with the waters, fly up to heaven from the dark descent. They have turned back from the seat of ṛta; and then the Earth is made to shine out, anointed with the clarified light (ghṛta).
कृ॒ष्णम् । नि॒ऽयान॑म् । हर॑यः । सु॒ऽप॒र्णाः । अ॒पः । वसा॑नाः । दिव॑म् । उत् । प॒त॒न्ति॒ । ते । आ । अ॒व॒वृ॒त्र॒न् । सद॑नात् । ऋ॒तस्य॑ । आत् । इत् । घृ॒तेन॑ । पृ॒थि॒वी । वि । उ॒द्य॒ते॒ ॥कृष्णम् । नियानम् । हरयः । सुपर्णाः । अपः । वसानाः । दिवम् । उत् । पतन्ति । ते । आ । अववृत्रन् । सदनात् । ऋतस्य । आत् । इत् । घृतेन । पृथिवी । वि । उद्यते ॥kṛṣṇam | ni-yānam | harayaḥ | su-parṇāḥ | apaḥ | vasānāḥ | divam | ut | patanti | te | ā | avavṛtran | sadanāt | ṛtasya | āt | it | ghṛtena | pṛthivī | vi | udyate