Sukta 1.164
तस्याः समुद्रा अधि वि क्षरन्ति तेन जीवन्ति प्रदिशश्चतस्रः । ततः क्षरत्यक्षरं तद्विश्वमुप जीवति ॥
तस्या॑: समु॒द्रा अधि॒ वि क्ष॑रन्ति॒ तेन॑ जीवन्ति प्र॒दिश॒श्चत॑स्रः । तत॑: क्षरत्य॒क्षरं॒ तद्विश्व॒मुप॑ जीवति ॥
tásyāḥ samudrā́ ádhi ví kṣaranti ténā jīvanti prádiśaś cátasraḥ | tátaḥ kṣaraty akṣáram tád víśvam úpa jīvati ||
From her the oceans pour and stream outward; by that flow the four directions live. From that same source the imperishable pours forth, and by That the whole world lives in dependence.
तस्याः॑ । स॒मु॒द्राः । अधि॑ । वि । क्ष॒र॒न्ति॒ । तेन॑ । जी॒व॒न्ति॒ । प्र॒ऽदिशः॑ । चत॑स्रः । ततः॑ । क्ष॒र॒ति॒ । अ॒क्षर॑म् । तत् । विश्व॑म् । उप॑ । जी॒व॒ति॒ ॥तस्याः । समुद्राः । अधि । वि । क्षरन्ति । तेन । जीवन्ति । प्रदिशः । चतस्रः । ततः । क्षरति । अक्षरम् । तत् । विश्वम् । उप । जीवति ॥tasyāḥ | samudrāḥ | adhi | vi | kṣaranti | tena | jīvanti | pra-diśaḥ | catasraḥ | tataḥ | kṣarati | akṣaram | tat | viśvam | upa | jīvati