Sukta 1.164
गौरीर्मिमाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी । अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन् ॥
गौ॒रीर्मि॑माय सलि॒लानि॒ तक्ष॒त्येक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी । अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी॑ स॒हस्रा॑क्षरा पर॒मे व्यो॑मन् ॥
gaurī́r mimāya salilā́ni tákṣaty éka-padī dvi-padī sā́ catúṣ-padī | aṣṭā́-padī náva-padī babhūvúṣī sahásrākṣarā paramé vyòman ||
The luminous One (Gaurī) measures out and shapes the flowing waters; one-footed, two-footed, she becomes four-footed; eight-footed, nine-footed she has become—the thousand-syllabled (sahasrākṣarā) in the supreme wide Space.
गौ॒रीः । मि॒मा॒य॒ । स॒लि॒लानि॑ । तक्ष॑ती । एक॑ऽपदी । द्वि॒ऽपदी॑ । सा । चतुः॑ऽपदी । अ॒ष्टाऽप॑दी । नव॑ऽपदी । ब॒भू॒वुषी॑ । स॒हस्र॑ऽअक्षरा । प॒र॒मे । विऽओ॑मन् ॥गौरीः । मिमाय । सलिलानि । तक्षती । एकपदी । द्विपदी । सा । चतुःपदी । अष्टापदी । नवपदी । बभूवुषी । सहस्रअक्षरा । परमे । विओमन् ॥gaurīḥ | mimāya | salilāni | takṣatī | eka-padī | dvi-padī | sā | catuḥ-padī | aṣṭāpadī | nava-padī | babhūvuṣī | sahasra-akṣarā | parame | vi-oman