Sukta 1.164
सूयवसाद्भगवती हि भूया अथो वयं भगवन्तः स्याम । अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती ॥
सू॒य॒व॒साद्भग॑वती॒ हि भू॒या अथो॑ व॒यं भग॑वन्तः स्याम । अ॒द्धि तृण॑मघ्न्ये विश्व॒दानीं॒ पिब॑ शु॒द्धमु॑द॒कमा॒चर॑न्ती ॥
sūyavasā́d bhágavatī hí bhūyā́ átho vayáṃ bhágavantaḥ syāma | addhí tṛ́ṇam aghnye viśvadā́nīṃ píba śuddhám udakám ā́carantī ||
O unharmable one (Aghnyā), become indeed full of fortunate plenitude through good pasture; and may we too become possessors of that fullness. Eat the grass in its truth, and drink the pure waters as you move in the right course.
सु॒य॒व॒स॒ऽअत् । भग॑ऽवती । हि । भू॒याः । अथो॒ इति॑ । व॒यम् । भग॑ऽवन्तः । स्या॒म॒ । अ॒द्धि । तृण॑म् । अ॒घ्न्ये॒ । वि॒श्व॒ऽदानी॑म् । पिब॑ । शु॒द्धम् । उ॒द॒कम् । आ॒ऽचर॑न्ती ॥सुयवसअत् । भगवती । हि । भूयाः । अथो इति । वयम् । भगवन्तः । स्याम । अद्धि । तृणम् । अघ्न्ये । विश्वदानीम् । पिब । शुद्धम् । उदकम् । आचरन्ती ॥suyavasa-at | bhaga-vatī | hi | bhūyāḥ | atho iti | vayam | bhaga-vantaḥ | syāma | addhi | tṛṇam | aghnye | viśva-dānīm | piba | śuddham | udakam | ācarantī