Sukta 1.164
ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुः । यस्तन्न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासते ॥
ऋ॒चो अ॒क्षरे॑ पर॒मे व्यो॑म॒न्यस्मि॑न्दे॒वा अधि॒ विश्वे॑ निषे॒दुः । यस्तन्न वेद॒ किमृ॒चा क॑रिष्यति॒ य इत्तद्वि॒दुस्त इ॒मे समा॑सते ॥
ṛcó akṣáre paramé vyòmani yásmin devā́ ádhi víśve niṣedúḥ | yás tán na véda kím ṛcā́ kariṣyati yá ít tád vidús tá imé samā́sate ||
The Mantra (ṛc) is founded in the imperishable (akṣara), in the supreme wide Space (parame vyoman) where all the gods take their seat. One who does not know That—what can he accomplish by the hymn? But those who know That, they are gathered here in a true harmony of being.
ऋ॒चः । अ॒क्षरे॑ । प॒र॒मे । विऽओ॑मन् । यस्मि॑न् । दे॒वाः । अधि॑ । विश्वे॑ । नि॒ऽसे॒दुः । यः । तत् । न । वेद॑ । किम् । ऋ॒चा । क॒रि॒ष्य॒ति॒ । ये । इत् । तत् । वि॒दुः । ते । इ॒मे । सम् । आ॒स॒ते॒ ॥ऋचः । अक्षरे । परमे । विओमन् । यस्मिन् । देवाः । अधि । विश्वे । निसेदुः । यः । तत् । न । वेद । किम् । ऋचा । करिष्यति । ये । इत् । तत् । विदुः । ते । इमे । सम् । आसते ॥ṛcaḥ | akṣare | parame | vi-oman | yasmin | devāḥ | adhi | viśve | ni-seduḥ | yaḥ | tat | na | veda | kim | ṛcā | kariṣyati | ye | it | tat | viduḥ | te | ime | sam | āsate