Sukta 1.164
इमं रथमधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्यश्वाः । सप्त स्वसारो अभि सं नवन्ते यत्र गवां निहिता सप्त नाम ॥
इ॒मं रथ॒मधि॒ ये स॒प्त त॒स्थुः स॒प्तच॑क्रं स॒प्त व॑ह॒न्त्यश्वा॑: । स॒प्त स्वसा॑रो अ॒भि सं न॑वन्ते॒ यत्र॒ गवां॒ निहि॑ता स॒प्त नाम॑ ॥
imáṃ rátham ádhi yé saptá tasthúḥ saptá-cakraṃ saptá vahanty áśvāḥ | saptá svásāro abhí sáṃ navante yátra gavā́ṃ ní-hitā saptá nā́ma ||
Upon this chariot stand seven; seven wheels it has, seven steeds bear it. Seven sisters bend together toward it, where the seven names of the Cows (rays of light/knowledge) are hidden and held.
इ॒मम् । रथ॑म् । अधि॑ । ये । स॒प्त । त॒स्थुः । स॒प्तऽच॑क्रम् । स॒प्त । व॒ह॒न्ति॒ । अश्वाः॑ । स॒प्त । स्वसा॑रः । अ॒भि । सम् । न॒व॒न्ते॒ । यत्र॑ । गवा॑म् । निऽहि॑ता । स॒प्त । नाम॑ ॥इमम् । रथम् । अधि । ये । सप्त । तस्थुः । सप्तचक्रम् । सप्त । वहन्ति । अश्वाः । सप्त । स्वसारः । अभि । सम् । नवन्ते । यत्र । गवाम् । निहिता । सप्त । नाम ॥imam | ratham | adhi | ye | sapta | tasthuḥ | sapta-cakram | sapta | vahanti | aśvāḥ | sapta | svasāraḥ | abhi | sam | navante | yatra | gavām | ni-hitā | sapta | nāma