Sukta 1.164
अपाङ्प्राङेति स्वधया गृभीतोऽमर्त्यो मर्त्येना सयोनिः । ता शश्वन्ता विषूचीना वियन्ता न्यन्यं चिक्युर्न नि चिक्युरन्यम् ॥
अपा॒ङ्प्राङे॑ति स्व॒धया॑ गृभी॒तोऽम॑र्त्यो॒ मर्त्ये॑ना॒ सयो॑निः । ता शश्व॑न्ता विषू॒चीना॑ वि॒यन्ता॒ न्य१॒॑न्यं चि॒क्युर्न नि चि॑क्युर॒न्यम् ॥
apā́ṅ prā́ṅ eti svadháyā gṛbhītó 'mártyo mártyenā sáyoniḥ | tā́ śáśvantā viṣūcī́nā viyántā ny ànyáṁ cikyúr ná ní cikyur anyám ||
Backward and forward he goes, held by his own self-law—the Immortal sharing one womb with the mortal. Those two, eternal, moving apart in different directions: they have discerned one another, yet they do not discern the Other.
अपा॑ङ् । प्राङ् । ए॒ति॒ । स्व॒धया॑ । गृ॒भी॒तः । अम॑र्त्यः । मर्त्ये॑न । सऽयो॑निः । ता । शश्व॑न्ता । वि॒षू॒चीना॑ । वि॒ऽयन्ता॑ । नि । अ॒न्यम् । चि॒क्युः । न । नि । चि॒क्युः॒ । अ॒न्यम् ॥अपाङ् । प्राङ् । एति । स्वधया । गृभीतः । अमर्त्यः । मर्त्येन । सयोनिः । ता । शश्वन्ता । विषूचीना । वियन्ता । नि । अन्यम् । चिक्युः । न । नि । चिक्युः । अन्यम् ॥apāṅ | prāṅ | eti | svadhayā | gṛbhītaḥ | amartyaḥ | martyena | sa-yoniḥ | tā | śaśvantā | viṣūcīnā | vi-yantā | ni | anyam | cikyuḥ | na | ni | cikyuḥ | anyam