Sukta 1.164
इयं वेदिः परो अन्तः पृथिव्या अयं यज्ञो भुवनस्य नाभिः । अयं सोमो वृष्णो अश्वस्य रेतो ब्रह्मायं वाचः परमं व्योम ॥
इ॒यं वेदि॒: परो॒ अन्त॑: पृथि॒व्या अ॒यं य॒ज्ञो भुव॑नस्य॒ नाभि॑: । अ॒यं सोमो॒ वृष्णो॒ अश्व॑स्य॒ रेतो॑ ब्र॒ह्मायं वा॒चः प॑र॒मं व्यो॑म ॥
iyáṁ vediḥ páro ántaḥ pṛthivyā́ ayáṁ yajñó bhúvanasya nā́bhiḥ | ayáṁ sómo vṛ́ṣṇo aśvásya réto bráhmāyáṁ vā́caḥ paramáṁ vyòma ||
This altar is the farthest end of Earth; this sacrifice is the navel of the world. This Soma is the seed of the mighty Stallion; this Brahman is the supreme heaven of Speech.
इ॒यम् । वेदिः॑ । परः॑ । अन्तः॑ । पृ॒थि॒व्याः । अ॒यम् । य॒ज्ञः । भुव॑नस्य । नाभिः॑ । अ॒यम् । सोमः॑ । वृष्णः॑ । अश्व॑स्य । रेतः॑ । ब्र॒ह्मा । अ॒यम् । वा॒चः । प॒र॒मम् । विऽओ॑म ॥इयम् । वेदिः । परः । अन्तः । पृथिव्याः । अयम् । यज्ञः । भुवनस्य । नाभिः । अयम् । सोमः । वृष्णः । अश्वस्य । रेतः । ब्रह्मा । अयम् । वाचः । परमम् । विओम ॥iyam | vediḥ | paraḥ | antaḥ | pṛthivyāḥ | ayam | yajñaḥ | bhuvanasya | nābhiḥ | ayam | somaḥ | vṛṣṇaḥ | aśvasya | retaḥ | brahmā | ayam | vācaḥ | paramam | v i-oma