Sukta 1.164
पृच्छामि त्वा परमन्तं पृथिव्याः पृच्छामि यत्र भुवनस्य नाभिः । पृच्छामि त्वा वृष्णो अश्वस्य रेतः पृच्छामि वाचः परमं व्योम ॥
पृ॒च्छामि॑ त्वा॒ पर॒मन्तं॑ पृथि॒व्याः पृ॒च्छामि॒ यत्र॒ भुव॑नस्य॒ नाभि॑: । पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेत॑: पृ॒च्छामि॑ वा॒चः प॑र॒मं व्यो॑म ॥
pṛcchā́mi tvā paramántaṁ pṛthivyā́ḥ pṛcchā́mi yátra bhúvanasya nā́bhiḥ | pṛcchā́mi tvā vṛ́ṣṇo aśvásya rétaḥ pṛcchā́mi vā́caḥ paramáṁ vyòma ||
I ask you of the farthest end of Earth; I ask where is the navel of the world. I ask you of the seed of the Stallion in his might; I ask of the supreme heaven of Speech.
पृ॒च्छामि॑ । त्वा॒ । पर॑म् । अन्त॑म् । पृ॒थि॒व्याः । पृ॒च्छामि॑ । यत्र॑ । भुव॑नस्य । नाभिः॑ । पृ॒च्छामि॑ । त्वा॒ । वृष्णः॑ । अश्व॑स्य । रेतः॑ । पृ॒च्छामि॑ । वा॒चः । प॒र॒मम् । विऽओ॑म ॥पृच्छामि । त्वा । परम् । अन्तम् । पृथिव्याः । पृच्छामि । यत्र । भुवनस्य । नाभिः । पृच्छामि । त्वा । वृष्णः । अश्वस्य । रेतः । पृच्छामि । वाचः । परमम् । विओम ॥pṛcchāmi | tvā | param | antam | pṛthivyāḥ | pṛcchāmi | yatra | bhuvanasya | nābhiḥ | pṛcchāmi | tvā | vṛṣṇaḥ | aśvasya | retaḥ | pṛcchāmi | vācaḥ | paramam | vi-oma