Sukta 1.164
सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि । ते धीतिभिर्मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः ॥
स॒प्तार्ध॑ग॒र्भा भुव॑नस्य॒ रेतो॒ विष्णो॑स्तिष्ठन्ति प्र॒दिशा॒ विध॑र्मणि । ते धी॒तिभि॒र्मन॑सा॒ ते वि॑प॒श्चित॑: परि॒भुव॒: परि॑ भवन्ति वि॒श्वत॑: ॥
saptā́rdhagarbhā́ bhúvanasya réto víṣṇos tiṣṭhanti pradíśā vidhármaṇi | té dhītíbhir mánasā té vipaścítaḥ paribhúvaḥ pári bhavanti viśvátaḥ ||
Seven, half-formed embryos, the seed of the world, stand in the directions in the wide law of Viṣṇu. By their thoughts and by the mind they are seers; mastering, they encompass from every side.
स॒प्त । अ॒र्ध॒ऽग॒र्भाः । भुव॑नस्य । रेतः॑ । विष्णोः॑ । ति॒ष्ठ॒न्ति॒ । प्र॒ऽदिशा॑ । विऽध॑र्मणि । ते । धी॒तिऽभिः॑ । मन॑सा । ते । वि॒पः॒ऽचितः॑ । प॒रि॒ऽभुवः॑ । परि॑ । भ॒व॒न्ति॒ । वि॒श्वतः॑ ॥सप्त । अर्धगर्भाः । भुवनस्य । रेतः । विष्णोः । तिष्ठन्ति । प्रदिशा । विधर्मणि । ते । धीतिभिः । मनसा । ते । विपःचितः । परिभुवः । परि । भवन्ति । विश्वतः ॥sapta | ardha-garbhāḥ | bhuvanasya | retaḥ | viṣṇoḥ | tiṣṭhanti | pra-diśā | vi-dharmaṇi | te | dhīti-bhiḥ | manasā | te | vipaḥ-citaḥ | pari-bhuvaḥ | pari | bhavanti | viśvataḥ