Sukta 1.164
द्यौर्मे पिता जनिता नाभिरत्र बन्धुर्मे माता पृथिवी महीयम् । उत्तानयोश्चम्वोर्योनिरन्तरत्रा पिता दुहितुर्गर्भमाधात् ॥
द्यौर्मे॑ पि॒ता ज॑नि॒ता नाभि॒रत्र॒ बन्धु॑र्मे मा॒ता पृ॑थि॒वी म॒हीयम् । उ॒त्ता॒नयो॑श्च॒म्वो॒३॒॑र्योनि॑र॒न्तरत्रा॑ पि॒ता दु॑हि॒तुर्गर्भ॒माधा॑त् ॥
dyáur me pitā́ janitā́ nā́bhir átra bándhur me mātā́ pṛthivī́ mahī́yám | uttānayóś camvòr yónir antár atrā pitā́ duhítur gárbham ā́dhāt ||
Heaven is my Father, the begetter; here is the navel-centre. Earth, the vast, is my Mother, my kin. Between the two outstretched bowls is the womb; there the Father set the embryo in the Daughter—thus the worlds are knit by a secret generation.
द्यौः । मे॒ । पि॒ता । ज॒नि॒ता । नाभिः॑ । अत्र॑ । बन्धुः॑ । मे॒ । मा॒ता । पृ॒थि॒वी । म॒ही । इ॒यम् । उ॒त्ता॒नयोः॑ । च॒म्वोः॑ । योनिः॑ । अ॒न्तः । अत्र॑ । पि॒ता । दु॒हि॒तुः । गर्भ॑म् । आ । अ॒धा॒त् ॥द्यौः । मे । पिता । जनिता । नाभिः । अत्र । बन्धुः । मे । माता । पृथिवी । मही । इयम् । उत्तानयोः । चम्वोः । योनिः । अन्तः । अत्र । पिता । दुहितुः । गर्भम् । आ । अधात् ॥dyauḥ | me | pitā | janitā | nābhiḥ | atra | bandhuḥ | me | mātā | pṛthivī | mahī | iyam | uttānayoḥ | camvoḥ | yoniḥ | antaḥ | atra | pitā | duhituḥ | garbham | ā | adhāt