Sukta 1.164
य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुगिन्नु तस्मात् । स मातुर्योना परिवीतो अन्तर्बहुप्रजा निॠतिमा विवेश ॥
य ईं॑ च॒कार॒ न सो अ॒स्य वे॑द॒ य ईं॑ द॒दर्श॒ हिरु॒गिन्नु तस्मा॑त् । स मा॒तुर्योना॒ परि॑वीतो अ॒न्तर्ब॑हुप्र॒जा निॠ॑ति॒मा वि॑वेश ॥
yá īṁ cakā́ra ná sá asyá veda yá īṁ dadárśa híruk ín nu tásmāt | sá mātúr yónā pári-vīto antár bahu-prajā́ níḥ-ṛ́tim ā́ viveśa ||
He who fashioned it does not know it; he who has seen it has turned away from it. Wrapped within the mother’s womb, rich in births, he enters into dissolution—so secret is the law of becoming.
यः । ई॒म् । च॒कार॑ । न । सः । अ॒स्य । वे॒द॒ । यः । ई॒म् । द॒दर्श॑ । हिरु॑क् । इत् । नु । तस्मा॑त् । सः । मा॒तुः । योना॑ । परि॑ऽवीतः । अ॒न्तः । ब॒हु॒ऽप्र॒जाः । निःऽऋ॑तिम् । आ । वि॒वे॒श॒ ॥यः । ईम् । चकार । न । सः । अस्य । वेद । यः । ईम् । ददर्श । हिरुक् । इत् । नु । तस्मात् । सः । मातुः । योना । परिवीतः । अन्तः । बहुप्रजाः । निःऋतिम् । आ । विवेश ॥yaḥ | īm | cakāra | na | saḥ | asya | veda | yaḥ | īm | dadarśa | hiruk | it | nu | tasmāt | saḥ | mātuḥ | yonā | pari-vītaḥ | antaḥ | bahu-prajāḥ | niḥ-ṛtim | ā | viveśa