Sukta 1.164
सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा । त्रिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः ॥
स॒प्त यु॑ञ्जन्ति॒ रथ॒मेक॑चक्र॒मेको॒ अश्वो॑ वहति स॒प्तना॑मा । त्रि॒नाभि॑ च॒क्रम॒जर॑मन॒र्वं यत्रे॒मा विश्वा॒ भुव॒नाधि॑ त॒स्थुः ॥
saptá yuñjanti rátham éka-cakram éko áśvo vahati saptá-nāmā | trí-nābhi cakrám ájaram anárvaṃ yátre mā́ viśvā́ bhúvanā́dhi tasthúḥ ||
Seven harness the one-wheeled chariot; one steed bears it, bearing seven names. The wheel has three naves, undecaying, unbroken; upon it all these worlds are set in ordered poise.
स॒प्त । यु॒ञ्ज॒न्ति॒ । रथ॑म् । एक॑ऽचक्रम् । एकः॒ । अश्वः॑ । व॒ह॒ति॒ । स॒प्तऽना॑मा । त्रि॒ऽनाभि॑ । च॒क्रम् । अ॒जर॑म् । अ॒न॒र्वम् । यत्र॑ । इ॒मा । विश्वा॑ । भुव॑ना । अधि॑ । त॒स्थुः ॥सप्त । युञ्जन्ति । रथम् । एकचक्रम् । एकः । अश्वः । वहति । सप्तनामा । त्रिनाभि । चक्रम् । अजरम् । अनर्वम् । यत्र । इमा । विश्वा । भुवना । अधि । तस्थुः ॥sapta | yuñjanti | ratham | eka-cakram | ekaḥ | aśvaḥ | vahati | sapta-nāmā | tr i-nābhi | cakram | ajaram | anarvam | yatra | imā | viśvā | bhuvanā | adhi | tasthuḥ