Sukta 1.164
गौरमीमेदनु वत्सं मिषन्तं मूर्धानं हिङ्ङकृणोन्मातवा उ । सृक्वाणं घर्ममभि वावशाना मिमाति मायुं पयते पयोभिः ॥
गौर॑मीमे॒दनु॑ व॒त्सं मि॒षन्तं॑ मू॒र्धानं॒ हिङ्ङ॑कृणो॒न्मात॒वा उ॑ । सृक्वा॑णं घ॒र्मम॒भि वा॑वशा॒ना मिमा॑ति मा॒युं पय॑ते॒ पयो॑भिः ॥
gaúr amīmet ánu vatsáṃ míṣantaṃ mūrdhā́naṃ híṅ akṛṇon mātávā u | sṛ́kvāṇaṃ gharmám abhí vāvaśānā́ mimāti māyúṃ páyate páyobhiḥ ||
The Cow measured after her blinking calf; she made the ‘hiṅ’ at the head, as a mother indeed. Longing toward the kindled heat, she measures out her cry; she swells and flows with her milk-essences.
गौः । अ॒मी॒मे॒त् । अनु॑ । व॒त्सम् । मि॒षन्त॑म् । मू॒र्धान॑म् । हिङ् । अ॒कृ॒णो॒त् । मात॒वै । ऊँ॒ इति॑ । सृक्वा॑णम् । घ॒र्मम् । अ॒भि । वा॒व॒शा॒ना । मिमा॑ति । मा॒युम् । पय॑ते । पयः॑ऽभिः ॥गौः । अमीमेत् । अनु । वत्सम् । मिषन्तम् । मूर्धानम् । हिङ् । अकृणोत् । मातवै । ऊँ इति । सृक्वाणम् । घर्मम् । अभि । वावशाना । मिमाति । मायुम् । पयते । पयःभिः ॥gauḥ | amīmet | anu | vatsam | miṣantam | mūrdhānam | hiṅ | akṛṇot | mātavai | oṃ iti | sṛkvaaṇam | gharmam | abhi | vāvaśānā | mimāti | māyum | payate | payaḥ-bhiḥ