Sukta 1.164
हिङ्कृण्वती वसुपत्नी वसूनां वत्समिच्छन्ती मनसाभ्यागात् । दुहामश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय ॥
हि॒ङ्कृ॒ण्व॒ती व॑सु॒पत्नी॒ वसू॑नां व॒त्समि॒च्छन्ती॒ मन॑सा॒भ्यागा॑त् । दु॒हाम॒श्विभ्यां॒ पयो॑ अ॒घ्न्येयं सा व॑र्धतां मह॒ते सौभ॑गाय ॥
hiṅkṛṇvatī́ vasupátnī vasū́nāṃ vatsám icchántī mánasābhy ā́gāt | duhā́m aśvíbhyāṃ páyo aghnyéyaṃ sā́ vardhatāṃ mahaté saúbhagāya ||
Lowing, the Lady of riches, the mistress of treasures, came near in mind seeking her calf. This inviolate Cow yields milk for the Aśvins; may she increase toward the great felicity.
हि॒ङ्ऽकृ॒ण्व॒ती । व॒सु॒ऽपत्नी॒ । वसू॑नाम् । व॒त्सम् । इ॒च्छन्ती॑ । मन॑सा । अ॒भि । आ । अ॒गा॒त् । दु॒हाम् । अ॒श्विऽभ्या॑म् । पयः॑ । अ॒घ्न्या । इ॒यम् । सा । व॒र्ध॒ता॒म् । म॒ह॒ते । सौभ॑गाय ॥हिङ्कृण्वती । वसुपत्नी । वसूनाम् । वत्सम् । इच्छन्ती । मनसा । अभि । आ । अगात् । दुहाम् । अश्विभ्याम् । पयः । अघ्न्या । इयम् । सा । वर्धताम् । महते । सौभगाय ॥hiṅ-kṛṇvatī | vasu-patnī | vasūnām | vatsam | icchantī | manasā | abhi | ā | agāt | duhām | aśvi-bhyām | payaḥ | aghnyā | iyam | sā | vardhatām | mahate | saubhagāya