Sukta 1.164
उप ह्वये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम् । श्रेष्ठं सवं सविता साविषन्नोऽभीद्धो घर्मस्तदु षु प्र वोचम् ॥
उप॑ ह्वये सु॒दुघां॑ धे॒नुमे॒तां सु॒हस्तो॑ गो॒धुगु॒त दो॑हदेनाम् । श्रेष्ठं॑ स॒वं स॑वि॒ता सा॑विषन्नो॒ऽभी॑द्धो घ॒र्मस्तदु॒ षु प्र वो॑चम् ॥
úpa hvaye sudúghāṃ dhénum etā́ṃ suhástō gōdhúg utá dōhad enām | śréṣṭhaṃ saváṃ savitā́ sāviṣan no ’bhī́ddho ghármás tád u ṣú prá vocam ||
I call near this abundantly-yielding Cow; with good hands may we, as milkers of the Light, milk her. May Savitṛ impel for us the supreme pressing; the heat is kindled—this indeed I declare forth.
उप॑ । ह्व॒ये॒ । सु॒ऽदुघा॑म् । धे॒नुम् । ए॒ताम् । सु॒ऽहस्तः॑ । गो॒ऽधुक् । उ॒त । दो॒ह॒त् । ए॒ना॒म् । श्रेष्ठ॑म् । स॒वम् । स॒वि॒ता । सा॒वि॒ष॒त् । नः॒ । अ॒भिऽइ॑द्धः । घ॒र्मः । तत् । ऊँ॒ इति॑ । सु । प्र । वो॒च॒म् ॥उप । ह्वये । सुदुघाम् । धेनुम् । एताम् । सुहस्तः । गोधुक् । उत । दोहत् । एनाम् । श्रेष्ठम् । सवम् । सविता । साविषत् । नः । अभिइद्धः । घर्मः । तत् । ऊँ इति । सु । प्र । वोचम् ॥upa | hvaye | su-dughām | dhenum | etām | su-hastaḥ | go--dhuk | uta | dohat | enām | śreṣṭham | savam | savitā | sāviṣat | naḥ | abhi-iddhaḥ | gharmaḥ | tat | oṃ iti | su | pra | vocam