Sukta 1.164
यद्गायत्रे अधि गायत्रमाहितं त्रैष्टुभाद्वा त्रैष्टुभं निरतक्षत । यद्वा जगज्जगत्याहितं पदं य इत्तद्विदुस्ते अमृतत्वमानशुः ॥
यद्गा॑य॒त्रे अधि॑ गाय॒त्रमाहि॑तं॒ त्रैष्टु॑भाद्वा॒ त्रैष्टु॑भं नि॒रत॑क्षत । यद्वा॒ जग॒ज्जग॒त्याहि॑तं प॒दं य इत्तद्वि॒दुस्ते अ॑मृत॒त्वमा॑नशुः ॥
yád gāyatré ádhi gāyatrám ā́hitaṃ traiṣṭubhād vā́ traiṣṭubhaṃ nír atakṣata | yád vā́ jágaj jagaty ā́hitaṃ padáṃ yá ít tád vidús té amṛtatvám ānaśuḥ ||
When the Gāyatrī is set upon the Gāyatrī, or from the Triṣṭubh they fashion out the Triṣṭubh; or when the stride (pada) is set in the Jagat that moves—those who know That indeed attain immortality.
यत् । गा॒य॒त्रे । अधि॑ । गा॒य॒त्रम् । आऽहि॑त॑म् । त्रैस्तु॑भात् । वा॒ । त्रैस्तु॑भम् । निः॒ऽअत॑क्षत । यत् । वा॒ । जग॑त् । जग॑ति । आऽहि॑तम् । प॒दम् । ये । इत् । तत् । वि॒दुः । ते । अ॒मृ॒त॒ऽत्वम् । आ॒न॒शुः॒ ॥यत् । गायत्रे । अधि । गायत्रम् । आहितम् । त्रैस्तुभात् । वा । त्रैस्तुभम् । निःअतक्षत । यत् । वा । जगत् । जगति । आहितम् । पदम् । ये । इत् । तत् । विदुः । ते । अमृतत्वम् । आनशुः ॥yat | gāyatre | adhi | gāyatram | āhitam | traistubhāt | vā | traistubham | niḥ-atakṣata | yat | vā | jagat | jagati | āhitam | padam | ye | it | tat | viduḥ | te | amṛta-tvam | ānaśuḥ