Sukta 1.164
यस्मिन्वृक्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे । तस्येदाहुः पिप्पलं स्वाद्वग्रे तन्नोन्नशद्यः पितरं न वेद ॥
यस्मि॑न्वृ॒क्षे म॒ध्वद॑: सुप॒र्णा नि॑वि॒शन्ते॒ सुव॑ते॒ चाधि॒ विश्वे॑ । तस्येदा॑हु॒: पिप्प॑लं स्वा॒द्वग्रे॒ तन्नोन्न॑श॒द्यः पि॒तरं॒ न वेद॑ ॥
yásmin vṛkṣé madhv-ádaḥ suparṇā́ níviśante súvate cā́dhi víśve | tásyéd āhuḥ píppalaṃ svā́dv ágre tán nón naśad yáḥ pitáraṃ ná véda ||
In that Tree the honey-eating winged powers take their seat, and upon it all beings are set in motion. They say its fig is sweet at the crown; but he does not truly reach it who does not know the Father.
यस्मि॑न् । वृ॒क्षे । म॒धु॒ऽअदः॑ । सु॒ऽप॒र्णाः । नि॒ऽवि॒शन्ते॑ । सुव॑ते । च॒ । अधि॑ । विश्वे॑ । तस्य॑ । इत् । आ॒हुः॒ । पिप्प॑लम् । स्वा॒दु । अग्रे॑ । तत् । न । उत् । न॒श॒त् । यः । पि॒तर॑म् । न । वेद॑ ॥यस्मिन् । वृक्षे । मधुअदः । सुपर्णाः । निविशन्ते । सुवते । च । अधि । विश्वे । तस्य । इत् । आहुः । पिप्पलम् । स्वादु । अग्रे । तत् । न । उत् । नशत् । यः । पितरम् । न । वेद ॥yasmin | vṛkṣe | madhu-adaḥ | su-parṇāḥ | ni-viśante | suvate | ca | adhi | viśve | tasya | it | āhuḥ | pippalam | svādu | agre | tat | na | ut | naśat | yaḥ | pitaram | na | veda