Sukta 1.164
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परि षस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभि चाकशीति ॥
द्वा सु॑प॒र्णा स॒युजा॒ सखा॑या समा॒नं वृ॒क्षं परि॑ षस्वजाते । तयो॑र॒न्यः पिप्प॑लं स्वा॒द्वत्त्यन॑श्नन्न॒न्यो अ॒भि चा॑कशीति ॥
dvā́ suparṇā́ sayújā sakhā́yā samānáṃ vṛkṣáṃ pári ṣasvajāte | táyor anyáḥ píppalaṃ svā́dv átti ánaśnann anyó abhí cā́kaśīti ||
Two winged ones, yoked together, companions, embrace the one same Tree. Of the two, one tastes the sweet fig; the other, not eating, only watches in luminous awareness.
द्वा । सु॒ऽप॒र्णा । स॒ऽयुजा॑ । सखा॑या । स॒म॒नम् । वृ॒क्षम् । परि॑ । स॒स्व॒जा॒ते॒ इति॑ । तयोः॑ । अ॒न्यः । पिप्प॑लम् । स्वा॒दु । अत्ति॑ । अन॑श्नन् । अ॒न्यः । अ॒भि । चा॒क॒शी॒ति॒ ॥द्वा । सुपर्णा । सयुजा । सखाया । समनम् । वृक्षम् । परि । सस्वजाते इति । तयोः । अन्यः । पिप्पलम् । स्वादु । अत्ति । अनश्नन् । अन्यः । अभि । चाकशीति ॥dvā | su-parṇā | sa-yujā | sakhāyā | samanam | vṛkṣam | pari | sasvajāteiti | tayoḥ | anyaḥ | pippalam | svādu | atti | anaśnan | anyaḥ | abhi | cākaśīti