Sukta 1.164
ये अर्वाञ्चस्ताँ उ पराच आहुर्ये पराञ्चस्ताँ उ अर्वाच आहुः । इन्द्रश्च या चक्रथुः सोम तानि धुरा न युक्ता रजसो वहन्ति ॥
ये अ॒र्वाञ्च॒स्ताँ उ॒ परा॑च आहु॒र्ये परा॑ञ्च॒स्ताँ उ॑ अ॒र्वाच॑ आहुः । इन्द्र॑श्च॒ या च॒क्रथु॑: सोम॒ तानि॑ धु॒रा न यु॒क्ता रज॑सो वहन्ति ॥
yé arvā́ñcas tā́n u párācā āhur yé parā́ñcas tā́n u arvā́cā āhuḥ | índraś ca yā́ cakrathúḥ soma tā́ni dhurā́ na yuktā́ rájaso vahanti ||
Those that are turned inward they call outward; those that are turned outward they call inward. But the formations that Indra and Soma have wrought—like yoked bearers—carry the movements of the luminous world (rajas) onward.
ये । अ॒र्वाञ्चः॑ । तान् । ऊँ॒ इति॑ । परा॑चः । आ॒हुः॒ । ये । परा॑ञ्चः । तान् । ऊँ॒ इति॑ । अ॒र्वाचः॑ । आ॒हुः॒ । इन्द्रः॑ । च॒ । या । च॒क्रथुः॑ । सो॒म॒ । तानि॑ । धु॒रा । न । यु॒क्ताः । रज॑सः । व॒ह॒न्ति॒ ॥ये । अर्वाञ्चः । तान् । ऊँ इति । पराचः । आहुः । ये । पराञ्चः । तान् । ऊँ इति । अर्वाचः । आहुः । इन्द्रः । च । या । चक्रथुः । सोम । तानि । धुरा । न । युक्ताः । रजसः । वहन्ति ॥ye | arvāñcaḥ | tān | oṃ iti | parācaḥ | āhuḥ | ye | parāñcaḥ | tān | oṃ iti | arvācaḥ | āhuḥ | indraḥ | ca | yā | cakrathuḥ | soma | tāni | dhurā | na | yuktāḥ | rajasaḥ | vahanti