Sukta 1.164
अस्य वामस्य पलितस्य होतुस्तस्य भ्राता मध्यमो अस्त्यश्नः । तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम् ॥
अ॒स्य वा॒मस्य॑ पलि॒तस्य॒ होतु॒स्तस्य॒ भ्राता॑ मध्य॒मो अ॒स्त्यश्न॑: । तृ॒तीयो॒ भ्राता॑ घृ॒तपृ॑ष्ठो अ॒स्यात्रा॑पश्यं वि॒श्पतिं॑ स॒प्तपु॑त्रम् ॥
asyá vā́masya palitásya hótus tásya bhrā́tā madhyamó asty áśnaḥ | tṛtī́yo bhrā́tā ghṛtá-pṛṣṭho asyā́trā́paśyaṃ viśpátiṃ saptá-putram ||
Of this beloved, ancient Hotar there is a middle brother who is the eater; a third brother has a back of ghee (luminous richness). Here I beheld the Lord of the dwelling, the master of the clan, with seven sons—powers born of the one vision.
अ॒स्य । वा॒मस्य॑ । प॒लि॒तस्य॑ । होतुः॑ । तस्य॑ । भ्राता॑ । म॒ध्य॒मः । अ॒स्ति॒ । अश्नः॑ । तृ॒तीयः॑ । भ्राता॑ । घृ॒तऽपृ॑ष्ठः । अ॒स्य॒ । अत्र॑ । अ॒प॒श्य॒म् । वि॒श्पति॑म् । स॒प्तऽपु॑त्रम् ॥अस्य । वामस्य । पलितस्य । होतुः । तस्य । भ्राता । मध्यमः । अस्ति । अश्नः । तृतीयः । भ्राता । घृतपृष्ठः । अस्य । अत्र । अपश्यम् । विश्पतिम् । सप्तपुत्रम् ॥asya | vāmasya | palitasya | hotuḥ | tasya | bhrātā | madhyamaḥ | asti | aśnaḥ | tṛtīyaḥ | bhrātā | ghṛta-pṛṣṭhaḥ | asya | atra | apasyam | viśpatim | sapta-putram