Sukta 1.164
अवः परेण पितरं यो अस्यानुवेद पर एनावरेण । कवीयमानः क इह प्र वोचद्देवं मनः कुतो अधि प्रजातम् ॥
अ॒वः परे॑ण पि॒तरं॒ यो अ॑स्यानु॒वेद॑ प॒र ए॒नाव॑रेण । क॒वी॒यमा॑न॒: क इ॒ह प्र वो॑चद्दे॒वं मन॒: कुतो॒ अधि॒ प्रजा॑तम् ॥
aváḥ páreṇa pitáraṁ yó asyā́nuvéda pará enā́váreṇa | kavīyámānaḥ ká ihá prá vocad deváṁ mánaḥ kútó ádhi prajā́tam ||
Who knows the Father from the farther below, and from the nearer above? Who, becoming a seer, can declare here: from where, upon what foundation, is the divine Mind born?
अ॒वः । परे॑ण । पि॒तर॑म् । यः । अ॒स्य॒ । अ॒नु॒ऽवेद॑ । प॒रः । ए॒ना । अव॑रेण । क॒वि॒ऽयमा॑नः । कः । इ॒ह । प्र । वो॒च॒त् । दे॒वम् । मनः॑ । कुतः॑ । अधि॑ । प्रऽजा॑तम् ॥अवः । परेण । पितरम् । यः । अस्य । अनुवेद । परः । एना । अवरेण । कवियमानः । कः । इह । प्र । वोचत् । देवम् । मनः । कुतः । अधि । प्रजातम् ॥avaḥ | pareṇa | pitaram | yaḥ | asya | anu-veda | paraḥ | enā | avareṇa | kavi-yamānaḥ | kaḥ | iha | pra | vocat | devam | manaḥ | kutaḥ | adhi | pra-jātam