Sukta 1.163
अत्रा ते रूपमुत्तममपश्यं जिगीषमाणमिष आ पदे गोः । यदा ते मर्तो अनु भोगमानळादिद्ग्रसिष्ठ ओषधीरजीगः ॥
अत्रा॑ ते रू॒पमु॑त्त॒मम॑पश्यं॒ जिगी॑षमाणमि॒ष आ प॒दे गोः । य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒ळादिद्ग्रसि॑ष्ठ॒ ओष॑धीरजीगः ॥
átrā te rūpám uttamám apaśyaṃ jígīṣamāṇam iṣá ā padé góḥ | yadā́ te márto ánu bhógam ānáḷ ād íd grásiṣṭha óṣadhīr ajīgaḥ ||
Here I saw your most supreme form, striving for victory, coming to the step of the Ray (Go) where the nourishment is. When the mortal follows after enjoyment without the truth of the path, then indeed, O most devouring one, he is driven to consume the herbs—feeding on lower growths instead of the light.
अत्र॑ । ते॒ । रू॒पम् । उ॒त्ऽत॒मम् । अ॒प॒श्य॒म् । जिगी॑षमाणम् । इ॒षः । आ । प॒दे । गोः । य॒दा । ते॒ । मर्तः॑ । अनु॑ । भोग॑म् । आन॑ट् । आत् । इत् । ग्रसि॑ष्ठः । ओष॑धीः । अ॒जी॒ग॒रिति॑ ॥अत्र । ते । रूपम् । उत्तमम् । अपश्यम् । जिगीषमाणम् । इषः । आ । पदे । गोः । यदा । ते । मर्तः । अनु । भोगम् । आनट् । आत् । इत् । ग्रसिष्ठः । ओषधीः । अजीगरिति ॥atra | te | rūpam | ut-tamam | apaśyam | jigīṣamāṇam | iṣaḥ | ā | pade | goḥ | yadā | te | martaḥ | anu | bhogam | ānaṭ | āt | it | grasiṣṭhaḥ | oṣadhīḥ | ajīgariti