Sukta 1.163
इमा ते वाजिन्नवमार्जनानीमा शफानां सनितुर्निधाना । अत्रा ते भद्रा रशना अपश्यमृतस्य या अभिरक्षन्ति गोपाः ॥
इ॒मा ते॑ वाजिन्नव॒मार्ज॑नानी॒मा श॒फानां॑ सनि॒तुर्नि॒धाना॑ । अत्रा॑ ते भ॒द्रा र॑श॒ना अ॑पश्यमृ॒तस्य॒ या अ॑भि॒रक्ष॑न्ति गो॒पाः ॥
imā́ te vā́jinn avamārjánānīmā́ śaphā́nāṃ sanitúr nidhā́nā | átrā te bhadrā́ raśanā́ apaśyam ṛtásya yā́ abhirákṣanti gopā́ḥ ||
These are your cleansings, O bearer of plenitude; these are the placements of your hooves that win the goal. Here I beheld your auspicious reins—guarded by the herdsmen of Ṛta—those powers that protect the right movement of the Truth within us.
इ॒मा । ते॒ । वा॒जि॒न् । अ॒व॒ऽमार्ज॑नानि । इ॒मा । श॒फाना॑म् । स॒नि॒तुः । नि॒ऽधाना॑ । अत्र॑ । ते॒ । भ॒द्राः । र॒श॒नाः । अ॒प॒श्य॒म् । ऋ॒तस्य॑ । याः । अ॒भि॒ऽरक्ष॑न्ति । गो॒पाः ॥इमा । ते । वाजिन् । अवमार्जनानि । इमा । शफानाम् । सनितुः । निधाना । अत्र । ते । भद्राः । रशनाः । अपश्यम् । ऋतस्य । याः । अभिरक्षन्ति । गोपाः ॥imā | te | vājin | ava-mārjanāni | imā | śaphānām | sanituḥ | ni-dhānā | atra | te | bhadrāḥ | raśanāḥ | apaśyam | ṛtasya | yāḥ | abhi-rakṣanti | gopāḥ