Sukta 1.163
त्रीणि त आहुर्दिवि बन्धनानि त्रीण्यप्सु त्रीण्यन्तः समुद्रे । उतेव मे वरुणश्छन्त्स्यर्वन्यत्रा त आहुः परमं जनित्रम् ॥
त्रीणि॑ त आहुर्दि॒वि बन्ध॑नानि॒ त्रीण्य॒प्सु त्रीण्य॒न्तः स॑मु॒द्रे । उ॒तेव॑ मे॒ वरु॑णश्छन्त्स्यर्व॒न्यत्रा॑ त आ॒हुः प॑र॒मं ज॒नित्र॑म् ॥
trī́ṇi ta āhur diví bándhanāni trī́ṇy apsú trī́ṇy antáḥ samudré | utéva me váruṇaś chantsi arván yátrā ta āhúḥ paramáṃ jánitram ||
They speak of three bonds for you in heaven, three in the waters, and three within the ocean-depths. May Varuṇa grant me the seeing that finds, O steed, that place where they declare your supreme birth—where the force first arises in the highest truth.
त्रीणि॑ । ते॒ । आ॒हुः॒ । दि॒वि । बन्ध॑नानि । त्रीणि॑ । अ॒प्ऽसु । त्रीणि॑ । अ॒न्तरिति॑ । स॒मु॒द्रे । उ॒तऽइ॑व । मे॒ । वरु॑णः । छ॒न्त्सि॒ । अ॒र्व॒न् । यत्र॑ । ते॒ । आ॒हुः । प॒र॒मम् । ज॒नित्र॑म् ॥त्रीणि । ते । आहुः । दिवि । बन्धनानि । त्रीणि । अप्सु । त्रीणि । अन्तरिति । समुद्रे । उतइव । मे । वरुणः । छन्त्सि । अर्वन् । यत्र । ते । आहुः । परमम् । जनित्रम् ॥trīṇi | te | āhuḥ | divi | bandhanāni | trīṇi | ap-su | trīṇi | antariti | samudre | uta-iva | me | varuṇaḥ | chantsi | arvan | yatra | te | āhuḥ | paramam | janitram