Sukta 1.163
यमेन दत्तं त्रित एनमायुनगिन्द्र एणं प्रथमो अध्यतिष्ठत् । गन्धर्वो अस्य रशनामगृभ्णात्सूरादश्वं वसवो निरतष्ट ॥
य॒मेन॑ द॒त्तं त्रि॒त ए॑नमायुन॒गिन्द्र॑ एणं प्रथ॒मो अध्य॑तिष्ठत् । ग॒न्ध॒र्वो अ॑स्य रश॒नाम॑गृभ्णा॒त्सूरा॒दश्वं॑ वसवो॒ निर॑तष्ट ॥
yaména dát-taṃ tritá énam āyunag índra éṇaṃ prathamó ádhy atiṣṭhat | gandharvó asya raśanā́m agṛbhṇāt sūrā́d áśvaṃ vasavo nír ataṣṭa ||
Given by Yama, Trita yoked this steed of the inner journey; Indra first mounted and took his stand upon it. The Gandharva seized its rein of aspiration, and from the Sun’s luminous source the Vasus shaped it forth—powers that build the ordered fullness of being.
य॒मेन॑ । द॒त्तम् । त्रि॒तः । ए॒न॒म् । अ॒यु॒न॒क् । इन्द्रः॑ । ए॒न॒म् । प्र॒थ॒मः । अधि॑ । अ॒ति॒ष्ठ॒त् । ग॒न्ध॒र्वः । अ॒स्य॒ । र॒श॒नाम् । अ॒गृ॒भ्णा॒त् । सूरा॑त् । अश्व॑म् । व॒स॒वः॒ । निः । अ॒त॒ष्ट॒ ॥यमेन । दत्तम् । त्रितः । एनम् । अयुनक् । इन्द्रः । एनम् । प्रथमः । अधि । अतिष्ठत् । गन्धर्वः । अस्य । रशनाम् । अगृभ्णात् । सूरात् । अश्वम् । वसवः । निः । अतष्ट ॥yamena | dattam | tritaḥ | enam | ayunak | indraḥ | enam | prathamaḥ | adhi | ati ṣṭhat | gandharvaḥ | asya | raśanām | agṛbhṇāt | sūrāt | aśvam | vasavaḥ | niḥ | ataṣṭa