Sukta 1.163
यदक्रन्दः प्रथमं जायमान उद्यन्त्समुद्रादुत वा पुरीषात् । श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन् ॥
यदक्र॑न्दः प्रथ॒मं जाय॑मान उ॒द्यन्त्स॑मु॒द्रादु॒त वा॒ पुरी॑षात् । श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उ॑प॒स्तुत्यं॒ महि॑ जा॒तं ते॑ अर्वन् ॥
yád ákrandaḥ prathamáṃ jā́yamāna udyán samudrā́d utá vā purī́ṣāt | śyénasya pakṣā́ hariṇásya bāhū́ upa-stutyáṃ máhi jātáṃ te arván ||
When thou didst cry out at first, being born, rising up from the ocean-depth—or even from the rich earth-matter—thou wast as the wings of the eagle and as the arms of the deer: a greatness worthy of invocation, O Steed, was born in thee.
यत् । अक्र॑न्दः । प्र॒थ॒मम् । जाय॑मानः । उ॒त्ऽयन् । स॒मु॒द्रात् । उ॒त । वा॒ । पुरी॑षात् । श्ये॒नस्य॑ । प॒क्षा । ह॒रि॒णस्य॑ । बा॒हू इति॑ । उ॒प॒ऽस्तुत्य॑म् । महि॑ । जा॒तम् । ते॒ । अ॒र्व॒न् ॥यत् । अक्रन्दः । प्रथमम् । जायमानः । उत्यन् । समुद्रात् । उत । वा । पुरीषात् । श्येनस्य । पक्षा । हरिणस्य । बाहू इति । उपस्तुत्यम् । महि । जातम् । ते । अर्वन् ॥yat | akrandaḥ | prathamam | jāyamānaḥ | ut-yan | samudrāt | uta | vā | purīṣāt | śyenasya | pakṣā | hariṇasya | bāhū iti | upa-stutyam | mahi | jātam | te | arvan