Sukta 1.163
उप प्रागाच्छसनं वाज्यर्वा देवद्रीचा मनसा दीध्यानः । अजः पुरो नीयते नाभिरस्यानु पश्चात्कवयो यन्ति रेभाः ॥
उप॒ प्रागा॒च्छस॑नं वा॒ज्यर्वा॑ देव॒द्रीचा॒ मन॑सा॒ दीध्या॑नः । अ॒जः पु॒रो नी॑यते॒ नाभि॑र॒स्यानु॑ प॒श्चात्क॒वयो॑ यन्ति रे॒भाः ॥
úpa prá ā́gāc chásanaṃ vā́jy árvā devadrī́cā mánasā dī́dhyānaḥ | ajáḥ púro nī́yate nā́bhiḥ asyā́nu paścā́t kaváyo yanti rebhā́ḥ ||
Forward he advances to the seat of the Word and its governance—the strong steed of plenitude—guided godward, kindled in the mind’s light. The Unborn is led in front as his inmost navel-center; behind, the seers and inspired chanters follow in the wake of that moving Power.
उप॑ । प्र । अ॒गा॒त् । शस॑नम् । वा॒जी । अर्वा॑ । दे॒व॒द्रीचा॑ । मन॑सा । दीध्या॑नः । अ॒जः । पु॒रः । नी॒य॒ते॒ । नाभिः॑ । अ॒स्य॒ । अनु॑ । प॒श्चात् । क॒वयः॑ । य॒न्ति॒ । रे॒भाः ॥उप । प्र । अगात् । शसनम् । वाजी । अर्वा । देवद्रीचा । मनसा । दीध्यानः । अजः । पुरः । नीयते । नाभिः । अस्य । अनु । पश्चात् । कवयः । यन्ति । रेभाः ॥upa | pra | agāt | śasanam | vājī | arvā | devadrīcā | manasā | dīdhyānaḥ | ajaḥ | puraḥ | nīyate | nābhiḥ | asya | anu | paścāt | kavayaḥ | yanti | rebhāḥ