Sukta 1.163
तव शरीरं पतयिष्ण्वर्वन्तव चित्तं वात इव ध्रजीमान् । तव शृङ्गाणि विष्ठिता पुरुत्रारण्येषु जर्भुराणा चरन्ति ॥
तव॒ शरी॑रं पतयि॒ष्ण्व॑र्व॒न्तव॑ चि॒त्तं वात॑ इव॒ ध्रजी॑मान् । तव॒ शृङ्गा॑णि॒ विष्ठि॑ता पुरु॒त्रार॑ण्येष॒ज जर्भु॑राणा चरन्ति ॥
táva śárīraṃ patayiṣṇv arván táva cittáṃ vā́ta iva dhrájīmān | táva śṛ́ṅgāṇi víṣṭhitā purutrā́raṇyeṣv ája jarbhurā́ṇā caranti ||
Your body is eager for flight, O steed; your mind moves like the wind, swift and driving. Your horns stand set in many places; in the forests they roam, restless—signs that the force, if not mastered, scatters its points of power through the tangled growth of the inner wilderness.
तव॑ । शरी॑रम् । प॒त॒यि॒ष्णु । अ॒र्व॒न् । तव॑ । चि॒त्तम् । वातः॑ऽइव । ध्रजी॑मान् । तव॑ । शृङ्गा॑णि । विऽष्ठि॑ता । पुरु॒ऽत्रा । अर॑ण्येषु । जर्भु॑राणा । च॒र॒न्ति॒ ॥तव । शरीरम् । पतयिष्णु । अर्वन् । तव । चित्तम् । वातःइव । ध्रजीमान् । तव । शृङ्गाणि । विष्ठिता । पुरुत्रा । अरण्येषु । जर्भुराणा । चरन्ति ॥tava | śarīram | patayiṣṇu | arvan | tava | cittam | vātaḥ-iva | dhrajīmān | tava | śṛṅgāṇi | vi-ṣṭhitā | puru-trā | araṇyeṣu | jarbhurāṇā | caranti